मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६९, ऋक् २

संहिता

इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे ।
त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑ः ॥

पदपाठः

इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ ।
त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥

सायणभाष्यम्

हेवरुण हेमित्र वांयुवयोराज्ञाया धेनवोगावः इरावतीः इराक्षीरलवणातद्वत्योभवन्ति तथासिंधवः स्यंदनशीलामेघानद्योवा मधुमत् मधुरसमुदकं दुह्रे दुहन्ति तथा त्रयः त्रिसंख्याकावृषभासोवर्षितारः रेतोधाः उदकस्यधारकाः द्युमंतोदीप्तिमन्तः अग्निवाय्वादित्याः तिसॄ- णां त्रिसंख्याकानां धिषणानां स्थानानां पृथिव्यंतरिक्षद्युलोकानां स्वामिनःसन्तः वि विविधं प्रत्येकं तस्थुस्तिष्ठन्ति युवयोरनुग्रहात् त्रयो- पिदेवास्त्रिषुस्थानेषुवर्तंतइत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः