मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६९, ऋक् ३

संहिता

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥

पदपाठः

प्रा॒तः । दे॒वीम् । अदि॑तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।
रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्वऽता॑ता । ईळे॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

सायणभाष्यम्

अहमृषिः प्रातः प्रातःकाले अदितिमखंडनीयां देवानांजननी देवीं द्योतमानां जोहवीमि आह्वयामि तथामध्यन्दिने सूर्यस्य उदिता उदितौ तत्समृद्धिकाले माध्यन्दिनेसवने जोहवीमि हेमित्रावरुणा युवां राये धनप्राप्तये सर्वतात्तौ यज्ञे ईळे स्तौमि पुनःकिमर्थं तोकाय पुत्राय तनयाय तत्पुत्रायच शं अरिष्टशमनाय योः सुखस्यमिश्रणायच ईळइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः