मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७०, ऋक् १

संहिता

पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
मित्र॒ वंसि॑ वां सुम॒तिम् ॥

पदपाठः

पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ ।
मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥

सायणभाष्यम्

हेमित्रावरुणौ वांयुवयोः पुरूरुणाचित् अत्र सोः सुपांसुलुगित्याकारः पुरोरपिबहुउरुबहुतरं अथवा पुरुचतदुरुचपुरूरु अत्यन्तमुरुतर- मित्यर्थः तादृगवोरक्षणं नूनं निश्चयेन अस्ति हिप्रसिद्धौ चिदितिपूरणः हेवरुण हेमित्र वांयुवयोः सुमतिं अनुग्रहबुद्धिं वंसि संभजेय य- स्मादवोस्तितस्माद्वंसीतिभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः