मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७०, ऋक् २

संहिता

ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
व॒यं ते रु॑द्रा स्याम ॥

पदपाठः

ता । वा॒म् । स॒म्यक् । अ॒द्रु॒ह्वा॒णा॒ । इष॑म् । अ॒श्या॒म॒ । धाय॑से ।
व॒यम् । ते । रु॒द्रा॒ । स्या॒म॒ ॥

सायणभाष्यम्

हेअद्रुह्वाणा हेअद्रोग्धारौ ता तौ प्रसिद्धौ वां युवां सम्यक् स्तुमइतिशेषः स्तोतारोवयं इषमश्रं धायसे पानाय भोजनाय अश्याय अश्याम हेरुद्रा रुतः दुःखात् द्रावयितारौ रुदद्भिर्द्रवणीयौवा तेस्तोतारोवयं स्याम भवेम समृद्धाइतिशेषः युवाभ्यांस्वभूतावास्याम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः