मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७१, ऋक् १

संहिता

आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ ।
उपे॒मं चारु॑मध्व॒रम् ॥

पदपाठः

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । वरु॑ण । मित्र॑ । ब॒र्हणा॑ ।
उप॑ । इ॒मम् । चारु॑म् । अ॒ध्व॒रम् ॥

सायणभाष्यम्

हेवरुण हेमित्र हेरिशादसा शत्रूणांप्रेरकौयुवां नोस्माकमिमं चारुं चरणीयं अध्वरं अहिंसकं यज्ञमुपागन्तं उपागच्छतं कीदृशौ बर्हणा परिबर्हणौ निबर्हणौ हन्तारौशत्रूणाम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः