मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७१, ऋक् ३

संहिता

उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

उप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

नोस्माकं सुतमभिषुतं सोमंप्रति हेवरुण हेमित्र युवां उपागतं उपागच्छतं दाशुघोहविर्दातुर्ममास्यसोमस्य पीतये पानाय ॥ ३ ॥

आमित्रेवरुणइतितृचात्मकंषोडशंसूक्तं बाहुवृक्तस्यर्षमौष्णिहं मैत्रावरुणं आमित्रऔष्णिहमित्यनुक्रमणिका दशशत्रेतृतीयेहनिप्रउ- गशस्त्रेअयंमैत्रावरुणस्यतृचः सूत्रितंच-आमित्रेवरुणेवयमश्विनावेहगच्छतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः