मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७२, ऋक् १

संहिता

आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् ।
नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥

पदपाठः

आ । मि॒त्रे । वरु॑णे । व॒यम् । गीः॒ऽभिः । जु॒हु॒मः॒ । अ॒त्रि॒ऽवत् ।
नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

वयमात्रेयाः मित्रेवरुणे मित्रावरुणयोरर्थाय गीर्भिर्मन्त्रैराजुहुमः अत्रिवत् अस्मत् गोत्रप्रवर्तकोत्रिरिव तस्मात् मित्रावरुणौ सोमपीत- ये बर्हिषिनिषदतं निषीदतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०