मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् २

संहिता

इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता ।
व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥

पदपाठः

इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । पु॒रु । दंसां॑सि । बिभ्र॑ता ।
व॒र॒स्या । या॒मि॒ । अध्रि॑गू॒ इत्यध्रि॑ऽगू । हु॒वे । तु॒विःऽत॑मा । भु॒जे ॥

सायणभाष्यम्

इहास्मिन्यज्ञे त्या तौ पुरुभूतमा पुरूणां बहूनां यजमानानां भावयितृतमौ पुरु पुरूणि दंसांसि कर्माणि बिभ्रता धारयन्तौ वरस्याव- रणीयौ अध्रिगू अन्यैरधृतगमनकर्माणौ यामि उपागच्छामि तुविष्टमा प्रभूततमौ भुजे भोगाय पालनायवा हुवे आह्वयामि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११