मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ५

संहिता

आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ ।
परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रन्त आ॒तपः॑ ॥

पदपाठः

आ । यत् । वा॒म् । सू॒र्या । रथ॑म् । तिष्ठ॑त् । र॒घु॒ऽस्यद॑म् । सदा॑ ।
परि॑ । वा॒म् । अ॒रु॒षाः । वयः॑ । घृ॒णा । व॒र॒न्ते॒ । आ॒ऽतपः॑ ॥

सायणभाष्यम्

हेअश्विनौ वांयुवयोः सदा सर्वदा रघुष्यदं शीघ्रगंरथं सूर्या युवयोः पत्नी यत् यदा आतिष्ठत् आस्थितवती तदा वांपरिवरन्ते परितोवृ- ण्वन्ति केअरुषा आरोचमानाः घृणादीप्ताः आतपः आतापनाः शत्रूणां वयोश्वाः अथवा आतपइतिविशेष्यं वयोगन्तारउक्तलक्षणाः आत- पः सर्वतस्तापयित्र्योदीप्तयः परिवरन्ते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११