मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ६

संहिता

यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा ।
घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥

पदपाठः

यु॒वोः । अत्रिः॑ । चि॒के॒त॒ति॒ । नरा॑ । सु॒म्नेन॑ । चेत॑सा ।
घ॒र्मम् । यत् । वा॒म् । अ॒रे॒पस॑म् । नास॑त्या । आ॒स्ना । भु॒र॒ण्यति॑ ॥

सायणभाष्यम्

हेनरा नेतारावश्विनौ युवोर्युवयोः युवामित्यर्थः अत्रिरस्मत्पिताऋषिः सुम्नेन सुखेन अग्निदाहोपशमरूपेणहेतुना चेतसा आदरयुक्तेन- मनसा चिकेतति जानाति स्तुतवानित्यर्थः सतिदुःखे सुखमुक्ष्यते दुःखस्यकःप्रसंगइत्यतआह यद्यस्मात् हेनासत्यौ वांयुवयोरास्ना आस्येन तन्निष्पन्नेनस्तोत्रेण घर्मं दीप्तं दहन्तमग्निं असुरैः स्वदाहायप्रक्षिप्तं अरेपसं अपापं सुखकरं भुरण्यति प्राप्तवान् भुरण्यतिर्गतिकर्मा अत्रेरग्नेः सकाशात् रक्षणं हिमेनाग्निंघ्रंसंयुवमृबीसमुततप्तमत्रयइत्यादिभिः स्पष्टंप्रदर्शितम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२