मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ७

संहिता

उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः ।
यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥

पदपाठः

उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे॑षु । स॒म्ऽत॒निः ।
यत् । वा॒म् । दंसः॑ऽभिः । अ॒श्वि॒ना॒ । अत्रिः॑ । न॒रा॒ । आ॒ऽव॒वर्त॑ति ॥

सायणभाष्यम्

उग्रउद्गूर्णबलोवांयुवयोः ककुहः उछ्रितोमहान् ययिर्गन्ता सन्तनिः सततंगच्छन् रथः यामेषु गमनेषु यज्ञेषुवा श्रृण्वे श्रूयते हेअश्विना हेनरा यद्यस्मात् वांयुवां दंसोभिः कर्मभिः अत्रिरस्मत्पिता आववर्तति आवर्तयति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२