मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ८

संहिता

मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ ।
यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरन्त वाम् ॥

पदपाठः

मध्वः॑ । ऊं॒ इति॑ । सु । म॒धु॒ऽयु॒वा॒ । रुद्रा॑ । सिस॑क्ति । पि॒प्युषी॑ ।
यत् । स॒मु॒द्रा । अति॑ । पर्ष॑थः । प॒क्वाः । पृक्षः॑ । भ॒र॒न्त॒ । वा॒म् ॥

सायणभाष्यम्

हेमधूयुवा मधुरस्यसोमादेर्मिश्रयितारौ हेरुद्रा रुत् स्तुतिः तयाद्रवणीयौ रुद्रपुत्रौ वांयुवांमध्वोमधुररसेन सुपिप्युषी सुष्ठुप्याययन्ती स्तुतिरस्मत्कृता सिषक्ति सेवते यद्यदा समुद्रा समुद्रवणसाधनान्यन्तरिक्षाणि अतिपर्षथः अतिपारयथः यज्ञंप्राप्नुथइत्यर्थः तदापक्वाः पृक्षोन्नादीनिहविर्लक्षणानि वां भरन्त भ्रियन्तेयजमानैः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२