मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् ९

संहिता

स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ ।
ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥

पदपाठः

स॒त्यम् । इत् । वै । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒ऽभुवा॑ ।
ता । याम॑न् । या॒म॒ऽहूत॑मा । याम॑न् । आ । मृ॒ळ॒यत्ऽत॑मा ॥

सायणभाष्यम्

हेअश्विना युवांसत्यमित् सत्यमेव वाइतिपदपूरणः मयोभुवा सुखस्यभावयितारावाहुःपुराविदः ता तौ सुखकरत्वेनप्रसिद्धौ युवां या- मन् यज्ञे यामहूतमागमनार्थं भृशमाह्वातव्यौभवतमितिशेषः यामन्नस्मद्यज्ञे अस्मदर्थागमनेवा मृळयत्तमात्र अतिशयेनसुखयितारौभव- तम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२