मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७३, ऋक् १०

संहिता

इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ सन्तु॒ शंत॑मा ।
या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥

पदपाठः

इ॒मा । ब्रह्मा॑णि । वर्ध॑ना । अ॒श्विऽभ्या॑म् । स॒न्तु॒ । शम्ऽत॑मा ।
या । तक्षा॑म । रथा॑न्ऽइव । अवो॑चाम । बृ॒हत् । नमः॑ ॥

सायणभाष्यम्

अथस्तुतिंनिगमयति इमा इमानीदानींकृतानि ब्रह्माणि परिवृढानि स्तोत्राणि अश्विभ्यां वर्धना वर्धनानि समर्धकानि शंतमा सुखत- मानिसन्तु या यानि तक्षाम संपादयाम रथानिवशिल्पी तद्वत्तक्षाम तानिसुखतमानिसन्तु वयं बृहत्प्रभूतं प्रभूतफलप्रदं नमोनमस्कारो- क्तिमवोचाम ॥ १० ॥

कूष्ठइतिदशर्चंद्वितीयंसूक्तं पौरस्यार्षं कूष्ठइत्यनुक्रमणिका पूर्वत्रतुशब्दादिदमप्यानुष्टुभं आश्विनं तदितिपूर्वोक्तत्वात् प्रातरनुवाका- श्विनशस्त्रयोःपूर्वसूक्तेनसहोक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२