मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् २

संहिता

कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या ।
कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥

पदपाठः

कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या ।
कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥

सायणभाष्यम्

त्या तौ देवा देवौ नासत्या अशिनौ कुह कुत्रतिष्ठथः नु अद्य कुःहश्रुता कुत्रश्रुतौ दिवि द्युलोकेनिवसतइतिशेषः अथप्रत्यक्षकृतः हेदे- वौ युवां कस्मिन् जने यजमाने आयतथः आगच्छथः कःस्तोता वांयुवयोर्नदीनांस्तुतीनां सचा सहायः स्यात् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३