मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ३

संहिता

कं या॑थ॒ः कं ह॑ गच्छथ॒ः कमच्छा॑ युञ्जाथे॒ रथ॑म् ।
कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥

पदपाठः

कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् ।
कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥

सायणभाष्यम्

हेअश्विनौ युवां कं यजमानं यज्ञंवा प्रतियाथः अध्वानमुल्लंघ्ययाथः कंहकंच प्रतिगच्छथः गत्वाच केनसह संगतौभवथः कंचाच्छाभि- प्राप्तुंयुंजाथे योजयथोरथमश्वैः कस्यब्रह्माणि परिवृढानि स्तोत्राणि रण्यथः रमेथे वयंच वांयुवां इष्टये गयनायएषणायवा उश्मसि काम- यामहे तस्मात्कस्यचयागंप्रतिनगन्तव्यमित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३