मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ४

संहिता

पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।
यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥

पदपाठः

पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः ।
यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥

सायणभाष्यम्

हेपौर इदमश्विनोःसंबोधनं पौरेणस्तुत्यत्वेनसंबन्धादश्विनावपिपौरौ उभयोश्छान्दसमेकवचनं हेपौरसंबन्धिनावश्विनौ युवांपौरं चिदितिपूरणः पौरेणवृष्ट्यर्थंप्रार्थ्यमानत्वेनसंबन्धान्मेघोपिपौरः तं उदप्रुतं उदकप्लावकंमेघं पौरायऋषयेमह्यं जिन्वथः प्रेरयथः यद्यौ- युवां ईमितिपूरणः गृभीततातये गृहीतयज्ञसन्तानाय पौराय ईमेनंमेघं प्रतिगच्छ्थः द्रुहः द्रोहस्य पदे स्थाने अरण्यदेशे सिंहमिवगर्जन्तं प्रबलंसिंहंयथाबलात् च्यावयन्तिशूराःतद्वज्जिन्वथइति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३