मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ८

संहिता

आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।
पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा ॥

पदपाठः

आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ ।
पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥

सायणभाष्यम्

हेअश्विना अश्विनौ वांयुवयोरथःएकोरथः रथानांयेष्ठः इतरदेवरथानांमध्येतिशयेनगन्तासन् आयातु कीदृशःसन् पुरूचिद्बहून्यपि अस्मद्विरोधिनस्तिरोहिंसकस्तिरस्कर्तावा अस्मयुः अस्मान्कामयमानः मर्त्येषु सर्वेषुयजमानेषु मध्येआंगूषः स्तुत्यः आकारःपूरणः अथवा आंगूषःस्तोमःस्तवः अस्मयुः अस्मान् बलैर्योक्तुंकामयमानः मर्त्येषुमर्त्यैरस्मदीयैरृत्विग्भिःप्रेरितःसन् उक्तलक्षणाश्विनोरथस्यवा- स्तुतिरासर्वतः पुरूचित् पुरूण्यपिशत्रुबलानितिरस्तिरस्करोति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४