मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७४, ऋक् ९

संहिता

शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः ।
अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभि॑ः श्ये॒नेव॑ दीयतम् ॥

पदपाठः

शम् । ऊं॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः ।
अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥

सायणभाष्यम्

हेमधूयुवा मधुमन्तौ वांयुवाभ्यां चर्कृतिः पुनःपुनःकरणं युवाभ्यां अर्थाय पुनः पुनः क्रियमाणंस्तोत्रं युवयोरागमनस्याभ्यासोवा अस्माकं सु सुष्ठु शमु सुखकरमेव अस्तु भवतु हेअर्वाचीना अर्वागस्मदभिमुखांचनौ हेविचेतसा विशिष्टप्रज्ञौ श्येनेव श्येनाविव विभिर्गन्तृ- भिरभीशुभिर्दीयतं गच्छतं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४