मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् १

संहिता

प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् ।
स्तो॒ता वा॑मश्विना॒वृषि॒ः स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् ।
स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअश्विनौ एकःप्रतिशब्दोनुवादः वां युवयोः प्रियतमंरथं स्तोताऋषिरवस्युः स्तोमेनप्रतिभूषति अलंकरोति कीदृशंरथं वृषणं वर्षिता- रंफलानां वसुवाहनं धनानांवाहकं ईदृशंरथं आगमनायस्तौतीत्यर्थः तस्मात् हेमाध्वी मधुविद्यावेदितारौ मम हवमाह्वानं श्रुतं श्रृणुतं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५