मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ३

संहिता

आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअश्विना नोस्मभ्यं रत्नानि रमणीयानिधनानि बिभ्रतौ धारयन्तौ युवं युवां नोस्मान् वा आगच्छतं हेरुद्रा रुद्रपुत्रौ स्तुत्यौवा हेवा- जिनीवसू वाजिनधनौ युवां हिरण्यवर्तनी हिरण्यरथौ जुषाणा यज्ञंसेवमानौसन्तावागच्छतमिति माध्वीत्यादिगतं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५