सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।
उ॒त वां॑ ककु॒हो मृ॒गः पृक्ष॑ः कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।
उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
हेवृषण्वसू वर्षधनौ वर्षितारौवा वसूनां हेअश्विनौ सुष्टुभः सुस्तोतुर्मम वाणीची वाग्रूपास्तुतिः वांयुवयोः रथेआहिता स्थापिता अस्माभिःकृतेत्यर्थः उतापिच वांयुवाभ्यां ककुहोमहान् मृगः मृगयितः वापुषोवपुष्मान् यजमानः पृक्षोन्नंहविः कृणोति करोति तस्मा- न्ममहवं श्रुतमिति ॥ ४ ॥