मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ५

संहिता

बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ ।
विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ ।
विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअश्विना बोधिन्मनसा बुध्यमानमनस्कौ रथ्या रथस्वामिनौ इषिरा शीघ्रगन्तारौ सर्वैर्गन्तव्यौवा हवनश्रुता हवनस्यस्तुतेः श्रोतारौयुवां विभिरश्वैः च्यवानमृषिं अद्वयाविनं मायारहितं नियाथः यथातमृषिंप्राप्तवन्तौ तद्वन्मांप्रति पथिनियाथः नितरामागच्छतं प्रच्यवानाज्जुजुरुषोवव्रिमितिह्युक्तम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५