मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ६

संहिता

आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः ।
वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः ।
वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेनरा कर्मणांनेतारौ हेअश्विना अश्विनौ वां युवां मनोयुजोमनोमात्रेणयुज्यमानाः सुशिक्षिताइत्यर्थः प्रुषितप्सवः विचित्ररूपाः वयः शीघ्रगन्तारः अश्वासोश्वाः आवहन्तु पीतये सोमपानाय सुम्नेभिःसह अस्मभ्यंदेयैः सुखैस्तत्साधनैर्धनादिभिर्वासह वहन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६