मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७६, ऋक् १

संहिता

आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः ।
अ॒र्वाञ्चा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥

पदपाठः

आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाचः॑ । अ॒स्थुः॒ ।
अ॒र्वाञ्चा॑ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒ऽवांस॑म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ॑ ॥

सायणभाष्यम्

उषसामनीकं अनीकभूतः अनीकं सुखं उषसिप्रबुध्यमानइत्यर्थः तादृशोग्निराभातिदीप्यते यद्वा उषसांमुखमाभातिदीपयति उषःकले- ह्यग्नयःप्रतिबोध्यन्ते किंच विप्राणां मेधाविनां स्तोतॄणां देवयाः देवकामाः वाचः स्तोत्राणि उदस्थुः उत्तिष्ठन्ति यस्मादेवंतस्मात् हेरथ्या रथ्स्वामिनौ अश्विना अश्विनौ अर्वांचा अस्मदभिमुखांचनौ नूनं अद्यास्मिन्यागदिने इहायातं कंप्रति पीपिवांसं स्वांगैः परिवृढं घर्मं प्रदी- प्तंयज्ञं यद्वा पीपिवांसं आप्यायितं वसतीवरीभिः क्षरद्रूपंसोमरसं अथवा घृतादिनापीपिवांसंघर्मंप्रवर्ग्यं अच्छ अभिलक्ष्य इहयागे आयातं प्रवर्ग्येऽस्यसूक्तस्यविनियोगः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७