मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७६, ऋक् २

संहिता

न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।
दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ॥

पदपाठः

न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह ।
दिवा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥

सायणभाष्यम्

हेअश्विनौ संस्कृतंघर्मं नप्रमिमीतः नहिंस्तां किंतु अन्ति अन्तिके घर्मसमीपे नूनमिदानीं इहयज्ञे गमिष्ठा गन्तृतमौअश्विना अश्विनौ उपस्तुता उपस्तुतौभवतः दिवाभिपित्वे दिवसस्याभिपतनेप्रातःकाले अवसा रक्षणेनसहागमिष्ठा आगन्तृतमौ अवर्तिप्रतिद्वंद्वभूतौ वर्ति- र्जीवनं तदभावोवर्तिः तद्रहितमन्नंयथाभवति तथा आगन्तृतमौ आगत्यच दाशुषे हविर्दत्तवतेयजमानाय शंभविष्ठा सुखस्यभावयितारौ- भवतं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७