मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७६, ऋक् ४

संहिता

इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् ।
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥

पदपाठः

इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥

सायणभाष्यम्

हेअश्विना वांयुवयोः प्रदिविपुराणमिदंह्योकोनिवासयोग्यंस्थानं उत्तरवेद्याख्यं अथ सौमिकवेद्यभिप्रायेणाह इमेगृहाः प्राचीनवंशा- दयः इदंदुरोणं देवयजनगृहं नोस्मदर्थं दिवोद्युलोकात् बृहतः पर्वतात् पर्ववतोमेघादद्भ्योपांकारणात् अन्तरिक्षादायातं आगच्छतं किंतूष्णीं न इषमूर्जंच अन्नं बलंच बलसाधनमन्नंसारभूतमित्यर्थः तादृशंवहन्ता वहन्तौ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७