मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७६, ऋक् ५

संहिता

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

पदपाठः

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

सायणभाष्यम्

वयं संगमेम संगच्छेम आश्विनोर्नूतनेनावसा अनन्यकृतेनरक्षणेन मयोभुवा सुखस्यभावयित्र्या सुप्रणीतो सुप्रणीत्या सुष्ठु आगमनेनच अपिवा एते उभेअवसोविशेषणे उक्तलक्षणेन संगमेम नोस्मभ्यं रयिं आवहतं उत वीरान् पुत्रादीनावहतं हेअमृता अमरणधर्माणौ विश्वा विश्वानिसौभगानिसुभगत्वानि आवहतं ॥ ५ ॥

प्रातर्यावाणेतिपंचर्चंपंचमंसूक्तं आत्रेयं त्रैष्टुभमाश्विनं प्रातर्यावाणेतिह्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेनसहोक्तोविनि- योगः अप्तोर्यामेमैत्रावरुणातिरिक्तोक्थ्येइदमेवशस्यं तथाचसूत्रितं-प्रातर्यावाणाक्षेत्रस्यपतेमधुमन्तमूर्मिमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७