मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७७, ऋक् १

संहिता

प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ॥

पदपाठः

प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ ।
प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥

सायणभाष्यम्

हेमदीयाऋत्विजः प्रातर्यावाणा प्रातरेवयज्ञगन्तारौ प्रथमा अतएवेतरेभ्योदेवेभ्यः पूर्वंभाविनौ प्रकृष्टतमौवा अश्विनौ यजध्वं किमर्थं- प्रथमयागनियोगउच्यते गृध्रात् अभिकांक्षतः अररुषः अदातुः रक्षः प्रभृतेः पुरा पूर्वं पिबतः पिबतां अनागतौ कथंयष्टुंशक्यावित्यतआह अश्विना अश्विनौ प्रातर्हि यज्ञं दधाते धारयतः संभजतः पूर्वकालीनाः कवयः अनूचानाऋषयः प्रातरेवैतौ प्रशंसन्ति येवाअनूचानास्तेकव- यइतिहिनिगमः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८