मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७७, ऋक् २

संहिता

प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चाव॒ः पूर्व॑ःपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥

पदपाठः

प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥

सायणभाष्यम्

हेमदीयाःपुरुषाः अश्विना अश्विनौ प्रातः प्रातरेव यजध्वं पूजयध्वं स्तुध्वं हिनोत प्रहिणुत हवींषि सायं सायंकाले हविर्देवयाः देवगामि नास्ति नविद्यते देवानस्वीकुर्वन्तीत्यर्थः अजुष्टं असेव्यं तद्भवति पूर्वाह्णोवैदेवानामितिहिश्रुतिः । उत अस्मदस्मत्तोन्यःकोपिय- जते यजेत सोमेन विचावः वितर्पयेच्चहविषा अतोस्मास्वन्येषुचमध्ये पूर्वः पूर्वोयजमानः यःपूर्वःपूर्वोयष्टा भवति सवनीयान् देवानांसंभ- जनीयः संभाव्योभवति ॥ २ ॥ हिरण्यत्वगित्येषाआश्विनेपशौहविषोयाज्या हिरण्यत्वङ्मधुवर्णोघृतस्नुरभिक्रत्वेन्द्रभूरधज्यन्नितिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८