मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७७, ऋक् ३

संहिता

हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नु॒ः पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् ।
मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥

पदपाठः

हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः॑ । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् ।
मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽइ॒तानि॑ । विश्वा॑ ॥

सायणभाष्यम्

वांयुवयोरथः पृक्षोन्नममृतं वहन्नावर्ततेस्मदभिमुखंआगच्छति कीदृशोरथः हिरण्यत्वक् हिरण्याच्छादितरूपः हिरण्यावृतः मधुवर्णः मनोहरवर्णः घृतस्नुः उदकस्य ध्रस्नवनः मनोजवाः मनोवेगः वातरंहाः वातसदृशवेगः हेअश्विना येनरथेन विश्वा सर्वाणि दुरितानि पापा- नि दुर्गमनान्मार्गान्वा अतियाथः अतिक्रम्यगच्छथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८