मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७७, ऋक् ५

संहिता

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

पदपाठः

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

सायणभाष्यम्

व्याख्यातेयम् ॥ ५ ॥

अश्विनावेहेतिनवर्चंषष्ठंसूक्तं अत्रानुक्रमणिका-अश्विनौनवसप्तवध्रिस्त्र्युष्णिगादिचतुर्थीत्रिष्टुप् पंचानुष्टुभइति । सप्तवध्रिर्नामात्रेय- ऋषिः आदितस्तिस्रउष्णिहः चतुर्थीत्रिष्टुप् शिष्टाः पंचानुष्टुभः प्रातरनुवाकेआश्विनेक्रतावौष्णिहेछन्दसिआश्विनशस्त्रेचाद्यस्तृचोविनियुक्तः सूत्रितंच-अश्विनावर्तिरस्मदाश्विनावेहगच्छतमितितृचाविति । दशरात्रेतृती हिनिप्रउगशस्त्रेयमाश्विनस्तृचः सूत्रितंच-अश्विनावेहगच्छ- तमायाह्यद्रिभिः सुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८