मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् १

संहिता

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥

पदपाठः

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥

सायणभाष्यम्

हेअश्विनौ इहास्मिन्यागे आगच्छ्तं हेनासत्या मविवेनतं वेनतिःकान्तिकर्मा माविकामौभवतं निस्पृहावकामौ भवतमित्यर्थः हंसाविव तौयथानिर्मलोदकं आगच्छतस्तद्वत् सुतानभिषुतान् सोमान् उपापततं उपागच्छतं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९