मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ५

संहिता

वि जि॑हीष्व वनस्पते॒ योनि॒ः सूष्य॑न्त्या इव ।
श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुञ्चतम् ॥

पदपाठः

वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥

सायणभाष्यम्

हेवनस्पते वनस्पतिविकाररूपेपेटिके विजिहीष्व विगच्छ विवृताभव सूष्यंत्याइव प्रसोष्यमाणायाः स्त्रियाःयोनिरिव षूङ्प्राणिप्रसवे ऌटिशतरिरूपं संज्ञापूर्वस्यविधेरनित्यत्वाद्गुणाभावः प्रसवोन्मुख्याः स्त्रियाः योनिरिव भगः यथाविव्रियते तथात्वमपि विवृताभव तदर्थं हेअश्विना अश्विनौ मेहवं आह्वानं श्रुतं श्रृणुतं श्रुत्वाच सप्तवध्रिंच मामृषिंमुंचतं मोचयतं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०