मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ७

संहिता

यथा॒ वातः॑ पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वतः॑ ।
ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥

पदपाठः

यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।
ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥

सायणभाष्यम्

एतदाद्यृतक्रयंगर्भस्राविण्युपनिषत् एतदाद्यृक्रयेणासौसप्तवध्रिः स्वयोषितः ॥ गर्भिण्याःप्रसवायाशुस्तुतवानश्विनावृषिः ॥ १ ॥ यथा- वाताःपुष्करिणीं सरआदिकं सर्वतः समिंगयति सम्यक् चालति एवएवं तेतव गर्भएजतु कंपतां इतस्ततः संचरतु दशमास्यः दशमासान् गर्भे स्थितोनिरैतु निर्गच्छतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०