मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ८

संहिता

यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।
ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥

पदपाठः

यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।
ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥

सायणभाष्यम्

वातोयथाकंपमानोवनंकंपयतिस्वयं ॥ यथासमुद्रश्चलतिचाल्यतेवाथवायुना ॥ १ ॥ स्थित्वादशैवमासांस्त्वंगर्भोल्बेनसुवेष्टितः ॥ निर्गच्छजठारान्मातुर्जरायुयुजआपत ॥ २ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०