मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ९

संहिता

दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।
नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥

पदपाठः

दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।
निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥

सायणभाष्यम्

दशमासानुषित्वासौजननीजठरेसुखं ॥ निर्गच्छतुसुखंजीवोजननीचापिजीवतु ॥ १ ॥ ९ ॥

महेनोअद्येतिदशर्चंसप्तमंसूक्तं आत्रेयस्यसत्यश्रवसस्यार्षं पांक्तमुषस्यं अनुक्रम्यतेच-महेदशसत्यश्रवाउषस्यंतुपांक्तमिति । प्रात- रनुवाकेउषस्येक्रतौपांक्तेछन्दसिआश्विनशस्त्रेचेदंसूक्तं सूत्र्यतेहि-महेनोअद्येतिपांक्तमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०