मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् २

संहिता

या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः ।
सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

या । सु॒ऽनी॒थे । शौ॒च॒त्ऽर॒थे । वि । औच्छः॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा । वि । उ॒च्छ॒ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेदिवोदुहितः दिवः सूर्यस्यपुत्रीउषः यात्वं सुनीथे एतन्नामके शोचद्रथे शुचद्रथस्यापत्ये पूर्वंव्यौच्छः व्यवासयस्तमांसि सात्वं सहीय- सि अतिशयेनबलवति वाय्ये वय्यपुत्रे सत्यश्रवसि मयि व्युच्छ तमोविवासय उच्छीविवासे विवासोवर्जनं शिष्टमुक्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१