मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ५

संहिता

यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दय॑न्ति म॒घत्त॑ये ।
परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय॑न्ति । म॒घत्त॑ये ।
परि॑ । चि॒त् । वष्ट॑यः । द॒धुः॒ । दद॑तः । राधः॑ । अह्र॑यम् । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेउषः यच्चिद्धीतिपूरणः यत् येकेचन तेतव स्वभूताइमे पुरतोवर्तमानागणाः संघभूताः मघत्तये धनदातये धनदानाय धनवत्त्वायवा छदयन्ति उपच्छन्दयन्ति तेसर्वेपि अस्मान् परिदधुः परितोधारयन्ति वष्टयश्चिदस्मानेव कामयमानाः किंकुर्वन्तः अह्रयं अह्रियमाणं अ- क्षीणं अलज्जावहंवा राधोधनं हविर्लक्षणं ददतोयजन्तइत्यर्थः अर्थिभ्योक्षीणंददतोवा ये त्वां हविर्ददतः स्तुवन्ति तेसर्वेप्यस्मदर्थमेवबलं- धारयन्ति स्तुवन्तीत्यर्थः अथवा यद्धईत्यत्र यद्यपीतिव्याख्येयं तस्मिन् पक्षे उत्तरवाक्ये तथापीत्यध्याहार्यं अवशिष्टंसमानम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१