मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ६

संहिता

ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ ।
ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ । उषः॑ । म॒घो॒नि॒ । सू॒रिषु॑ ।
ये । नः॒ । राधां॑सि । अह्र॑या । म॒घऽवा॑नः । अरा॑सत । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेउषोदेवि मघोनि मघवति त्वं सूरिषुयागप्रेरकेषुयजमानेषु स्तोतृषुवा वीरवद्यशः वीरेः पुत्रादिभिरुपेतं अन्नंयशोवा आधाः आधेहि- आदेहि आनय येमघवानोधनवन्तः सूरयोनोस्मभ्यं तवस्तोतृभ्योराधांसि धनानि अह्रया अक्षीणानि अरासत ददुस्तेष्वित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२