मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ७

संहिता

तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।
ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भज॑न्त सू॒रय॒ः सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ ।
ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेउषोमघोनि त्वं तेभ्योद्युम्नं द्योतमानं हिरण्यादिरूपंधनं बृहद्यशोमहदन्नं महतींकीर्तिं वा तेभ्योयजमानेभ्यआवह ये आढ्यानोस्मभ्यं राधांसि धनानि अश्व्या अश्वैर्युक्तानि गव्या गोभिर्युक्तानि गोसमूहानश्वसमूहांश्च भजन्त भजेरन् ददुः सूरयोदातारः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२