मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ८

संहिता

उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः ।
सा॒कं सूर्य॑स्य र॒श्मिभि॑ः शु॒क्रैः शोच॑द्भिर॒र्चिभि॒ः सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । शु॒क्रैः । शोच॑त्ऽभिः । अ॒र्चिऽभिः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

उतापिच नोस्मभ्यं गोमतीर्गोभिरुपेतानि इषोन्नानि आवह आनय हेदिवोदुहितरुषः कदा सूर्यस्यरश्मिभिःसाकं शोचद्भिर्दीपयद्भिः शुक्रैर्निर्मलैरर्चिभिः अग्नेस्तेजोभिश्चसाकं सूर्योदयकाले अग्नीन्धनकालेचेत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२