मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ९

संहिता

व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ ।
नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः॑ ।
न । इत् । त्वा॒ । स्ते॒नम् । यथा॑ । रि॒पुम् । तपा॑ति । सूरः॑ । अ॒र्चिषा॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेदिवोदुहितरुषः त्वं व्युच्छ विभातंकुरु अपोस्मदीयंकर्म प्रतिचिरं विलंबंमातनुथाः त्वा त्वां रिपुं स्तेनं यथासंतापयतिराजादिः तद्वत् सूरः सूर्यः अर्चिषा तेजसा नेत् नैवतपाति तप्यात् शीघ्रंनोदेत्वित्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२