मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् १

संहिता

द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम् ।
दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥

पदपाठः

द्यु॒तत्ऽया॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् ।
दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥

सायणभाष्यम्

द्युतद्यामानं दीप्तरथं बृहतीं महतीं ऋतेन सत्येन यज्ञेनवा ऋतावरीं ऋतवतीं अरुणप्सुं अरुणरूपां विभातीं व्युच्छन्तीं देवीं द्योतमा- नामुषसं स्व रावहन्तीं सूर्यंगच्छन्तीं एवंमहानुभावामुषसंप्रति विप्रासोमेधाविनः ऋत्विजोमतिभिः स्तुतिभिर्जरन्ते स्तुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३