मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् २

संहिता

ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥

पदपाठः

ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽगान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ ।
बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥

सायणभाष्यम्

दर्शता दर्शनीया एषोषा बोधयन्तीकंजनं प्रसुप्रमित्यर्थः पथः सुगान् सुगमनान् क्रुण्वती अग्ने सूर्यस्यपुरस्तात् याति गच्छति कीदृश्युषाः बृहद्रथा प्रभूतरथा बृहती महती विश्वमिन्वा विश्वंव्याप्नुवाना विश्वतर्पणावा ईदृश्युषाः अह्नामग्रे ज्योतिस्तेजोयच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३