मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् ३

संहिता

ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धन्ती र॒यिमप्रा॑यु चक्रे ।
प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥

पदपाठः

ए॒षा । गोभिः॑ । अ॒रु॒णेभिः॑ । यु॒जा॒ना । अस्रे॑धन्ती । र॒यिम् । अप्र॑ऽआयु । च॒क्रे॒ ।
प॒थः । रद॑न्ती । सु॒वि॒ताय॑ । दे॒वी । पु॒रु॒ऽस्तु॒ता । वि॒श्वऽवा॑रा । वि । भा॒ति॒ ॥

सायणभाष्यम्

एषोषः अरुणेभिररुणवर्णैर्गोभिर्बलीवर्दैः रथंयुजाना योजयन्ती अस्रेधन्ती अशुष्यन्ती अक्षीणावा किं रयिं धनं अप्रायु अप्रगन्तृ अवि- चलितं चक्रे करोति किंकुर्वती पथोमार्गान् रदन्ती प्रकाशयन्ती किमर्थं सुविताय सुष्ठुगमनाय देवी द्योतमाना बहुभिः स्तुता विश्ववारा सर्वैर्वरणीया विभाति प्रकाशंकरोति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३