मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् ४

संहिता

ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् ।
ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥

पदपाठः

ए॒षा । विऽए॑नी । भ॒व॒ति॒ । द्वि॒ऽबर्हाः॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । त॒न्व॑म् । पु॒रस्ता॑त् ।
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥

सायणभाष्यम्

एषोषाः व्येनीभवति विशेशेणश्वेताभवति द्विबर्हाः द्वयोःप्रथममध्यमयोः स्थानयो परिवृढाउषाः पश्चात्तन्वं स्वीयांतनुमाविष्कृण्वा- ना प्रकटीकुर्वंती कुत्र पुरस्तात्पूर्वस्यांदिशि किं च ऋतस्यादित्यस्य पन्थां पंथानं साधु सम्यगन्वेति किंच प्रजानतीव विश्वंप्रज्ञापयन्ती इवेतिसंप्रयर्थे नदिशोमिनाति नहिनस्ति प्रत्युत दिशः प्रकाशयति अथवा प्रजानतीव अनुगन्तव्यमितिप्रकर्षेण अवगच्छन्तीच ऋतस्यपं- थामन्वेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३