मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८१, ऋक् १

संहिता

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥

पदपाठः

यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ ।
वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥

सायणभाष्यम्

विप्रामेधाविनऋत्विग्यजमानाः मनः स्वीयं सर्वेषुकर्मसु युंजते योजयन्ति सवित्रनुग्रहाय संकल्पंकुर्वंतिइत्यर्थः उतापिच धियः क- र्माण्यपि युंजते प्राप्नुवंति कस्यानुज्ञयेति उच्यते विप्रस्यमेधाविनः बृहतोमहतः विपश्चितः स्तुत्यस्यज्ञानवतोवा सवितुःअनुज्ञयेति सवि- तावैप्रसवानामीशइतिश्रुतिः । सएवसविता होत्राः सप्तहोत्रकाणामुचिताः क्रियाः वयुनावित् वयुनमितिप्रज्ञानाम तत्तदनुष्ठानविषयप्र- ज्ञावेत्ता एकइत् एकएव विदधे करोति पृथक् पृथगवधारयति किंच तस्यसवितुर्देवस्य परिष्टुतिः स्तुतिः मही महती अतिप्रभूता स्तुत्य- गोचरेत्यर्थः ॥ १ ॥ हविर्धानप्रवर्तनेरराट्यामवनद्धायांविश्वारूपाणीत्येषानुवचनीया सूत्रितंच-विश्वारूपाणिप्रतिमुंचतेकविरितिव्यवस्तायामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४