मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८१, ऋक् २

संहिता

विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥

पदपाठः

विश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।
वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ । प्र॒ऽयान॑म् । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

सायणभाष्यम्

कविः मेधावी सविता विश्वा सर्वाणिरूपाणि आत्मनि प्रतिमुंचते बध्नातिधारयति किंच भद्रं कल्याणं गमनादिविषयं प्रासावीत् अनुजानाति कस्मै द्विपदे मनुष्याय चतुष्पदे गवाश्वादिकाय किंच सविता सर्वस्यप्रेरकोदेवोवेरण्योवरणीयःसन् व्यख्यत् ख्यापयति प्रकाशयति किं नाकं नास्मिन्नकंदुःखमस्तीतिनाकः स्वर्गः यजमानार्थं स्वर्गंप्रकाशयतीत्यर्थः सदेवः उषसं प्रयाणमुदयमनु विराजति प्रकाशते सवितुरुदयात्पूर्वंह्युषाउदेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४