मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८१, ऋक् ३

संहिता

यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥

पदपाठः

यस्य॑ । प्र॒ऽयान॑म् । अनु॑ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् । ओज॑सा ।
यः । पार्थि॑वानि । वि॒ऽम॒मे । सः । एत॑शः । रजां॑सि । दे॒वः । स॒वि॒ता । म॒हि॒ऽत्व॒ना ॥

सायणभाष्यम्

अन्यइत् देवाअन्येप्यग्न्यादयोदेवाः देवस्यद्योतमानस्य सवितुः प्रयाणमनु ययुर्गच्छन्ति प्राप्नुवन्ति किं महिमानं महत्त्वं सवितुरुद- याभावेग्निहोत्रादिअनिष्पत्तेस्तेषांहविः स्तुत्याद्यभावात् ओजसा बलेनच युक्ताभवन्ति यःसविता पार्थिवानिरजांसि पृथिव्यादिलोकान् महित्वना स्वमहत्त्वेन विममे परिच्छिनत्ति सदेवः एतशः एतवर्णः शुभ्रः शोभमानःसन् राजतइतिशेषः युवशाता कृणोतनेत्यादिवदेत- शइत्यादिशकारोपजनश्छान्दसः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४